The NCERT Sanskrit Textbook for Class 10 Solution अध्याय-7 विचित्र: साक्षी

 सप्तमः पाठः

विचित्र : साक्षी

अयं पाठः ओमप्रकाशठक्करविरचितकथायाः सम्पादित अंशः अस्ति । इयं कथा बङ्गसाहित्यकार- बंकिमचन्द्र चटर्जीद्वारा न्यायाधीशरूपेण प्रदत्तनिर्णयोपरि आधारिता अस्ति । न्यायकर्तारः सत्यासत्यनिर्णयार्थं यदा-कदा तादृशीनां युक्तीनां प्रयोगं कुर्वन्ति याभिः प्रमाणं विनापि न्याय: स्यात् । अस्यां कथायामपि न्यायाधीशेन तथैव मार्गः आचरितः ।

सरलार्थ - यह पाठ श्री ओमप्रकाश ठाकुर द्वारा रचित कथा का सम्पादित अंश है । यह कथा बंगाल के साहित्यकार बंकिमचन्द्र चटर्जी द्वारा न्यायाधीश के रूप में दिए गए फैसले पर आधारित है। सत्य-असत्य के निर्णय हेतु न्यायाधीश जब कभी ऐसी युक्तियों का प्रयोग करते हैं जिससे साक्ष्य के अभाव में भी न्याय हो सके। इस कथा में भी न्यायाधीश के द्वारा ऐसे ही मार्ग का अनुसरण किया गया है।

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान् । तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः । तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः । परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।

सरलार्थ - किसी गरीब व्यक्ति ने बहुत परिश्रम करके कुछ धन कमाया। उस धन से वह अपने पुत्र को एक महाविद्यालय में प्रवेश दिलाने में सफल हुआ। वह बेटा वहीं छात्रावास में रहते हुए अध्ययन में लग गया। एक बार वह पिता बेटे की बीमारी को सुनकर व्याकुल (दुःखी) हुआ और पुत्र को देखने के लिए चल दिया । परन्तु धन के अभाव के कारण दुःखी वह बस को छोड़कर पैदल ही चल दिया।

पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। 'निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा', एवं विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थमुपागतः । करुणापरो गृही तस्मै आश्रयं प्रायच्छत् । 

सरलार्थ - पैदल चलते हुए शाम का समय होने पर भी वह मंजिल से दूर था । 'रात का अंधेरा फैलने पर एकान्त प्रदेश में यात्रा करना शुभ नहीं है, ऐसा सोचकर वह पास में स्थित गाँव में रात में रहने के लिए किसी घर में रहने के लिए पहुँचा। दयावान मालिक ने उसे आश्रय दे दिया।

              विचित्रा दैवगतिः । तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः । तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः । चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृह्णाच्च परं विचित्रमघटत । चौरः एव उच्चैः क्रोशितुमारभत "चौरोऽयं चौरोऽयम्" इति । तस्य तारस्वरेण प्रबुद्धा: ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत् । तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत् ।

सरलार्थ - भाग्य की गति विचित्र है। उस ही रात को उस घर में कोई चोर घर के अन्दर घुसा। वहाँ रखी हुई एक पेटी को उठाकर ले गया। चोर के पैरों की आवाज से जागे हुए अतिथि ने चोर की शंका होने से उसका पीछा किया और पकड़ लिया, परन्तु विचित्र घटा। चोर ही जोर से चिल्लाने लगा "यह चोर, यह चोर" ऐसा। उसके तेज स्वर से जागे हुए गाँव के लोग अपने घर से निकलकर वहाँ आ गए और बेचारे अतिथि को ही चोर मानकर भला-बुरा कहने लगे । यद्यपि गाँव का सिपाही ही चोर था। उस ही समय सिपाही ने उस अतिथि को यह चोर है ऐसा आरोप लगाकर जेल में डाल दिया ।

अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान् । न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान् । सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम् । किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत् । ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान् । अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ । तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः । तस्य मृतशरीरं राजमार्गं निकषा वर्तते । आदिश्यतां किं करणीयमिति । न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान् ।

सरलार्थ - अगले दिन वह सिपाही चोरी के आरोप में उसे न्यायालय ले गया । न्यायाधीश बंकिमचन्द्र ने दोनों का अलग-अलग विवरण सुना। पूरा वृत्तान्त सुनकर उसने उसे निर्दोष माना और पुलिस वाले को दोषी । किन्तु साक्ष्य के अभाव में वह निर्णय नहीं कर सका। तब उन दोनों को अगले दिन उपस्थित रहने का आदेश दिया । दूसरे दिन उन दोनों ने न्यायालय में अपना-अपना पक्ष फिर से रखा। तभी वहाँ किसी कर्मचारी ने आकर निवेदन किया कि यहाँ से दो कोस के मध्य कोई व्यक्ति किसी के द्वारा मारा गया। उसका मृत शरीर राजमार्ग के पास है। आदेश दें कि क्या करना चाहिए। न्यायाधीश ने सिपाही और आरोपी को उसका शव न्यायालय में लाने का आदेश दिया ।

               आदेशं प्राप्य उभौ प्राचलताम् । तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ । आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः । भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत् । स भारवेदनया क्रन्दति स्म । तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच - 'रे दुष्ट ! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः । इदानीं निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे" इति प्रोच्य उच्चैः अहसत् । यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ ।

सरलार्थ - आदेश प्राप्त करके दोनों चल दिए। वहाँ आकर लकड़ी के तख्त पर रखे हुए कपड़े से ढके हुए शरीर को कन्धे पर ढोते हुए न्यायाधीश की ओर चल दिए । सिपाही पुष्ट शरीर वाला था और आरोपी अत्यन्त दुर्बल शरीर वाला। भारी शव को कन्धे पर ढोना उसके लिए कठिन था। वह भार की पीड़ा से रोने लगा। उसके रोने को सुनकर प्रसन्न हुए सिपाही ने उससे कहा- 'अरे दुष्ट! उस दिन तुम्हारे द्वारा मैं चोरी की पेटी को ग्रहण करने से रोका गया। इस समय अपने किए का फल भोगो । इस चोरी के आरोप में तुम्हें तीन (3) वर्ष का कारावास मिलेगा। ऐसा कहकर जोर से हँसा । जैसे तैसे दोनों शव का लेकर एक चौराहे पर रूक गए।

न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ । आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्- मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे' इति ।

न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान् । अतएवोच्यते

सरलार्थ - न्यायाधीश ने फिर से घटना के विषय में बोलने का आदेश दिया । सिपाही के अपना पक्ष प्रस्तुत करते हुए आश्चर्य हुआ। उस शव ने ऊपरी वस्त्र हटाकर न्यायाधीश को प्रणाम करके निवेदन किया- हे मान्यवर ! इस सिपाही के द्वारा रास्ते में जो कहा गया वह बताता हूँ तुम्हारे द्वारा मैं चोरी की पेटी को ग्रहण करने से रोका गया, अतः अपने कर्म का फल भोगो इस चोरी के आरोप में तुम्हें तीन (3) वर्ष का कारावास मिलेगा।
न्यायाधीश ने सिपाही को कारावास के दण्ड का आदेश देकर उस व्यक्ति को सम्मान सहित मुक्त किया । इसलिए ही कहा गया है-

दुष्कराण्यपि कर्माणि मतिवैभवशालिनः ।
नीतिं युक्तिं समालम्ब्य लीलयैव प्रकुर्वते ||

अन्वय - मतिवैभवशालिनः (जनः) दुष्कराणि कर्माणि अपि नीतिं युक्तिं समालम्ब्य लीलया एव प्रकुर्वते ।

सरलार्थ - बुद्धि और सम्पत्ति सहित व्यक्ति कठिन काम भी नीति और युक्ति का आश्रय लेकर आसानी से ही कर लेता है।

अभ्यासः

1. एकपदेन उत्तरं लिखत-
(क) कीदृशे प्रदेशे पदयात्रा न सुखावहा ?                                          विजने
(ख) अतिथिः केन प्रबुद्ध: ?                                                      चौरस्य पादध्वनिना
(ग) कृशकायः कः आसीत्?                                                            अभियुक्तः
(घ) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान् ?                       आरक्षिणे
(ङ) कं निकषा मृतशरीरम् आसीत्?                                               राजमार्गम्
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) निर्धनः जनः कथं वित्तम् उपार्जितवान् ?
उत्तर. निर्धनः जनः भूरि विश्रम्य वित्तम् उपार्जितवान् ।
(ख) जनः किमर्थं पदातिः गच्छति ?
उत्तर. जनः परम् अर्थकार्थेन पीडितः बसयानं विहाय पदातिः गच्छति ।
(ग) प्रसृते निशान्धकारे स किम् अचिन्तयत्?
उत्तर. प्रसृते निशान्धकारे सः अचिन्तयत् यत् विजने प्रदेशे पदयात्रा न शुभावहा ।
(घ) वस्तुतः चौरः कः आसीत्?
उत्तर. वस्तुतः चौरः आरक्षी आसीत् ।
(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान् ?
उत्तर. जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान् - 'रे दुष्ट! तस्मिन् दिने त्वया अहं चोरितायाः मंजूषायाः ग्रहणाद् वारितः । इदानीं निजकृत्यस्य फलं मुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे' इति ।
(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति?
उत्तर. मतिवैभवशालिनः दुष्कराणि कार्याणि नीतिं युक्तिं समालम्ब्य लीलयैव साधयन्ति ।
3. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत- 
(क) पुत्रं द्रष्टुं सः प्रस्थितः ।
उत्तर. कं द्रष्टुं सः प्रस्थितः ?
(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत् । 
उत्तर. करुणापरो गृही कस्मै आश्रयं प्रायच्छत् ?
(ग) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः । 
उत्तर. कस्य पादध्वनिना अतिथिः प्रबुद्धः ?
(घ) न्यायाधीशः बंकिमचन्द्रः आसीत् । 
उत्तर. न्यायाधीशः कः आसीत्?
ङ स भारवेदनया क्रन्दति स्म। 
उत्तर. सः कया क्रन्दति स्म ?
(च) उभौ शवं चत्वरे स्थापितवन्तौ ।
उत्तर. उभौ शवं कुत्र स्थापितवन्तौ ?
4. यथानिर्देशमुत्तरत-
(क) 'आदेशं प्राप्य उभौ अचलताम्' अत्र किं कर्तृपदम् ?
उत्तर. उभौ ।
(ख) 'एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि' - अत्र 'मार्गे' इत्यर्थे किं पदं प्रयुक्तम् ? 
उत्तर. अध्वनि ।
(ग) 'करुणापरो गृही तस्मै आश्रयं प्रायच्छत्'- अत्र 'तस्मै' इति सर्वनामपदं कस्मै प्रयुक्तम् ? 
उत्तर. निर्धनजनाय ।
(घ) 'ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्' अस्मिन् वाक्ये किं क्रियापदम् ? 
उत्तर. आदिष्टवान् ।
(ङ) 'दुष्कराण्यपि कर्माणि मतिवैभवशालिनः ' - अत्र विशेष्यपदं किम् ?
उत्तर. कर्माणि ।
5. सन्धि / सन्धिविच्छेदं च कुरुत-
(क) पदातिरेव             -          पदातिः + एव
(ख) निशान्धकारे         -          निशा + अन्धकारे
(ग) अभि + आगतम्    -          अभ्यागतम्
(घ) भोजन + अन्ते       -          भोजनान्ते
(ङ) चौरोऽयम्            -           चौरः + अयम्
(च) गृह + अभ्यन्तरे     -            गृहाभ्यन्तरे
(छ) लीलयैव                -           लीलया + एव 
(ज) यदुक्तम्               -            यत् + उक्तम्
(झ) प्रबुद्धः + अतिथिः  -            प्रबुद्धोऽतिथिः
6. अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति । तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-
परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः द्रष्टुम् विहाय, पृष्टवान् प्रविष्टः आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णेतुम् आदिष्टवान् समागत्य, मुदितः ।
ल्यप्                                 क्त                    क्तवतु                             तुमुन् 
परिश्रम्य                         प्रस्थितः             उपर्जितवान्                    दापयितुम्
विहाय                            प्रविष्टः                   पृष्टवान्                          द्रष्टुम्
आदाय                         नियुक्तः                 नीतवान्                       क्रोशितुम्
समागत्य                        मुदितः               आदिष्टवान्                      निर्णेतुम्
7. ( अ ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत- 
(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान् । 
उत्तर. ते बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः ।
(ख) चौर : ग्रामे नियुक्तः राजपुरुषः आसीत् ।
उत्तर. चौरा: ग्रामे नियुक्ताः राजपुरुषाः आसन् ।
(ग) कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः ।
उत्तर. केचन चौराः गृहाभ्यन्तरं प्रविष्टवन्तः ।
(घ) अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ । 
उत्तर. अन्येद्युः ते न्यायालये स्व-स्व पक्षं स्थापितवन्तः ।
( आ ) कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
(क) सः "गृहात्" निष्क्रम्य बहिरगच्छत् । (गृहशब्दे पंचमी )
(ख) गृहस्थः “अतिथये" आश्रयं प्रायच्छत् । ( अतिथिशब्दे चतुर्थी)
(ग) तौ "न्यायाधिकारिणं" प्रति प्रस्थितौ । ( न्यायाधिकारिन् शब्दे द्वितीया)
(घ) "अस्मिन्" चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे । (इदम् शब्दे सप्तमी)
(ङ) चौरस्य "पादध्वनिना" प्रबुद्धः अतिथिः । ( पादध्वनिशब्दे तृतीया)

Post a Comment

0Comments

Either way the teacher or student will get the solution to the problem within 24 hours.

Post a Comment (0)
close