पञ्चमः पाठः
सुभाषितानि
प्रस्तुतोऽयं पाठः विविधग्रन्थात् सङ्कलितानां दशसुभाषितानां सङ्ग्रहो वर्तते । संस्कृतसाहित्ये सार्वभौमिकं सत्यं प्रकाशयितुम् अर्थगाम्भीर्ययुता पद्यमयी प्रेरणात्मिका रचना सुभाषितमिति कथ्यते । अयं पाठांशः परिश्रमस्य महत्त्वम्, क्रोधस्य दुष्प्रभावः, सामाजिक महत्त्वम्, सर्वेषां वस्तूनाम् उपादेयता, बुद्धेः वैशिष्ट्यम इत्यादीन् विषयान् प्रकाशयति ।
सरलार्थ - यह प्रस्तुत पाठ अनेक ग्रन्थों से संकलित दश सुभाषितों का संग्रह है । संस्कृत साहित्य में सार्वभौमिक सत्य को प्रकाशित करने के लिए अर्थ की गम्भीरता से युक्त पद्यमयी प्रेरणात्मक रचना को सुभाषित कहते हैं। इस पाठ में परिश्रम का महत्त्व, क्रोध का दुष्प्रभाव, सामाजिक महत्त्व, सभी वस्तुओं की उपादेयता और बुद्धि की विशेषता आदि विषयों पर प्रकाश डाला गया है।
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥1॥
अन्वय - मनुष्याणां शरीरस्थ: आलस्यं हि महान् रिपुः (अस्ति ) । उद्यमसमः बन्धुः न
अस्ति यं कृत्वा (मनुष्य) न अवसीदति ।
सरलार्थ - मनुष्यों के शरीर में स्थित आलस्य ही महान् ( बहुत बड़ा ) शत्रु है। परिश्रम के समान मित्र नहीं है, जिसे (परिश्रम करके मनुष्य दुःखी नहीं होता है ।
गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः ॥2 ॥
अन्वय - गुणी गुणं वेत्ति, निर्गुण: (गुण) न वेत्ति, बली बलं वेत्ति, निर्बलं (बल) न वेत्ति, वसन्तस्य गुणं पिक: (वेत्ति), वायसः न ( वेत्ति), सिंहस्य बलं करी (वेत्ति), मूषकः न ।
सरलार्थ - गुणी गुण जानता है, निर्गुण गुण नहीं जानता । बलशाली बल जानता है, निर्बल बल नहीं जानता । वसन्त का गुण कोयल जानती है, कौआ नहीं जानता। शेर का बल हाथी जानता है, चूहा नहीं जानता।
निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति ॥3॥
अन्वय - यः निमित्तम् उद्दिश्य प्रकुप्यति सः तस्य ( निमित्तस्य) अपगमे ध्रुवं प्रसीदति । (तु) यस्य मनः अकारणद्वेषि ( अस्ति) जनः तं कथं परितोषयिष्यति ।
सरलार्थ - जो निमित्त ( किसी वजह ) को लक्ष्य कर अधिक क्रोध करता है, वह उसकी ( निमित्त की) समाप्ति पर निश्चय ही प्रसन्न होता है। लेकिन जिसका मन अकारण द्वेष करता है मनुष्य उसको (मन को) कैसे संतुष्ट करेगा ।
उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः ।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः ||4||
अन्वय - पशुना अपि उदीरितः अर्थ: गृह्यते, (यथा) हयाः नागाः च बोधिताः (भार) वहन्ति । पण्डितः जनः अनुक्तम् अपि ऊहति, बुद्धयः परेङ्गितज्ञानफलाः भवन्ति ।
सरलार्थ - पशु के द्वारा भी कहा गया अर्थ समझ लिया जाता है। जैसे घोड़े और हाथी बताए गए (भार को) ढोते हैं। ज्ञानी पुरुष बिना कहे हुए का भी अनुमान लगा लेते हैं, बुद्धियाँ दूसरों के संकेत से उत्पन्न ज्ञान रूपी फल वाली होती हैं।
क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय |
यथास्थितः काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम् ॥5॥
अन्वय - हि नराणां देहविनाशनाय प्रथमः शत्रुः देहस्थितः क्रोधः (अस्ति ) । हि यथा काष्ठगतः स्थितः वह्निः काष्ठम् एव दहते (तथैव सः एव ( शरीरस्थः क्रोधः) शरीरं दहते ।
सरलार्थ - निश्चय ही मनुष्यों के शरीर के विनाश के लिए प्रथम शत्रु शरीर में स्थित क्रोध है। क्योंकि जैसे लकड़ी में स्थित आग लकड़ी को ही जलाती है, वैसे ही शरीर में स्थित क्रोध ही शरीर को जला देता है।
मृगा मृगैः सङ्गमनुव्रजन्ति,
गावश्च गोभिः तुरगास्तुरङ्गैः ।
मूर्खाश्च मूर्खे: सुधियः सुधीभिः,
समान - शील- व्यसनेषु सख्यम् ॥6॥
अन्वय - मृगा: मृगै: ( सह), गावश्च गोभि: (सह), तुरगा : तुरंगै: (सह), मूर्खा: मूर्खे: ( सह), सुधियः सुधीभि: (सह) सङ्गम् अनुव्रजन्ति । समानशीलव्यसनेषु सख्यम् (भवति) ।
सरलार्थ - हिरण हिरणों के साथ, गाय गायों के साथ, घोड़े घोड़ों के साथ, मूर्ख लोग मूखों के साथ और विद्वान लोग विद्वानों का अनुसरण करते हैं। समान शील और स्वभाव होने पर मित्रता होती है।
सेवितव्यो महावृक्षः फलच्छायासमन्वितः ।
यदि दैवात् फलं नास्ति छाया केन निवायत ||7||
अन्वय - फलच्छाया - समन्वितः महावृक्षः सेवितव्यः । यदि दैवात् फलं न अस्ति
( तु वृक्षस्य ) छाया केन निवार्यते ।
सरलार्थ - फल और छाया से युक्त महान् वृक्ष आश्रय लेने योग्य हैं। यदि भाग्य से
फल नहीं है तो वृक्ष की छाया किसके द्वारा रोकी जा सकती है।
अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ॥ 8 ॥
अन्वय - अमन्त्रं अक्षरम् न अस्ति, मूलं अनौषधं न अस्ति, अयोग्यः पुरुषः न अस्ति, तत्र (गुणान् ) योजकः दुर्लभः (भवति) ।
सरलार्थ - मन्त्र से रहित अक्षर नहीं होता, जड़ औषधि से रहित नहीं होती, योग्यता से रहित व्यक्ति नहीं होता, वहाँ (गुणों को) जोड़ने वाला दुर्लभ होता है ।
संपत्तौ च विपत्तौ च महतामेकरूपता ।
उदये सविता रक्तो रक्तश्चास्तमये तथा ॥9॥
अन्वय - महतां संपत्तौ विपत्तौ च एकरूपता भवति । यथा सविता उदये रक्तः भवति, तथा एव अस्तमये च रक्तः भवति ।
सरलार्थ - महापुरुष सम्पत्ति और विपत्ति में एक समान होते हैं। जैसे, सूर्य उदय होता हुआ लाल होता और वैसे ही अस्त होते हुए भी लाल होता है।
विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम् ।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः ॥10॥
अन्वय - विचित्रे संसारे खलु किंचित् (अपि) निर्थकं न अस्ति । चेत् अश्वः धावने
वीर, (तर्हि) खर: भारस्य वहने (वीर: अस्ति) ।
सरलार्थ - विचित्र संसार में निश्चय ही कुछ भी निरर्थक नहीं है। यदि घोड़ा दौड़ने
में वीर है तो गधा भार ढोने में वीर है।
अभ्यासः
1. एकपदेन उत्तरं लिखत-
(क) मनुष्याणां महान् रिपुः कः ? उत्तर - आलस्यम्
(ख) गुणी किं वेत्ति ? उत्तर - गुणम्
(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता ? उत्तर - महताम्
(घ) पशुना अपि कीदृशः गृहयते ? उत्तर - उदीरितोऽर्थः
(ङ) उदयसमये अस्तसमये च कः रक्तः भवति ? उत्तर - सूर्य:
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) केन समः बन्धुः नास्ति ?
उत्तर. उद्यमसमः बन्धुः नास्ति ।
(ख) वसन्तस्य गुणं कः जानाति ।
उत्तर. वसन्तस्य गुणं पिकः जानाति ।
(ग) बुद्धयः कीदृश्यः भवन्ति ?
उत्तर. बुद्धयः परेङ्गितज्ञानफलाः भवन्ति ।
(घ) नराणां प्रथमः शत्रुः कः ?
उत्तर. नराणां प्रथमः शत्रुः क्रोधः अस्ति ।
(ङ) सुधियः सख्यं केन सह भवति ?
उत्तर. सुधियः सख्यं सुधीभिः सह भवति ।
(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः ?
उत्तर. अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः ।
3. अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
(क) यः "निमित्तम्" उद्दिश्य प्रकुप्यति तस्य "अपगमे" सः ध्रुवं प्रसीदति । यस्य मनः अकारणद्वेषि अस्ति, “जनः" तं कथं परितोषयिष्यति ?
(ख) "विचित्रे" संसारे खलु "किंचित्" निरर्थकम् नास्ति । अश्वः चेत् "धावने" वीरः, खरः 'भारस्य" वहने (वीरः) (भवति)
4. अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तर. अनुक्तमप्यूहति पण्डितो जनः
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति ।
उत्तर. समान - शील - व्यसनेषु सख्यम्
(ग) परिश्रमं कुर्वाणः नरः कदापि दुःखं न प्राप्नोति ।
उत्तर. नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति ।
उत्तर. संपत्तौ विपत्तौ च महतामेकरूपता
5. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
(क) गुणी गुणं जानाति । ( बहुवचने)
उत्तर. गुणिनः गुणं जानन्ति ।
(ख) पशुः उदीरितम् अर्थं गृह्णाति । (कर्मवाच्ये)
उत्तर. पशुना उदीरितः अर्थः गृहयते
(ग) मृगाः मृगैः सह अनुव्रजन्ति । ( एकवचने)
उत्तर. मृगः मृगैः सह अनुव्रजति ।
(घ) कः छायां निवारयति । (कर्मवाच्ये)
उत्तर. केन छाया निवार्यते ?
(ङ) तेन एव वह्निना शरीरं दह्यते । ( कर्तृवाच्ये)
उत्तर. सः एव वह्निः शरीरं दहते ।
6. ( अ ) सन्धिं / सन्धिविच्छेदं कुरुत -
(क) न + अस्ति + उद्यमसमः - "नास्त्युद्यमसमः"
ख) "तस्य" + "अपगमे" - तस्यापगमे
(ग) अनुक्तम् + अपि + ऊहति - "अनुक्तमप्यूहति"
(घ) "गावः" + "च" - गावश्च
(ङ) "न" + "अस्ति" - नास्ति
(च) रक्तः + च + अस्तमये - "रक्तश्चास्तमये"
(छ) "योजकः" + तत्र - योजकस्तत्र
(आ) समस्तपदं / विग्रहं लिखत-
(क) उद्यमसमः - उद्यमेन समः
(ख) शरीरे स्थितः - शरीरस्थ:
(ग) निर्बल: - बलेन हीनः
(घ) देहस्य विनाशनाय - देहविनाशाय
(ङ) महावृक्षः - महान् वृक्षः
(च) समानं शीलं व्यसनं येषां तेषु - समानशीलव्यसनेषु
(छ) अयोग्यः - न योग्य:
7. अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत-
(क) प्रसीदति - अवसीदति
(ख) मूर्ख : - पण्डितः
(ग) बली - निर्बल:
(घ) सुलभः - दुर्लभः
(ङ) संपत्तौ - विपत्तौ
(च) अस्तमये - उदये
(छ) सार्थकम् - निर्थकम्
( अ ) संस्कृतेन वाक्यप्रयोगं कुरुत-
(क) वायसः - वायसः काकः भवति ।
(ख) निमित्तम् - निमित्तं हि कार्य सिद्धयति ।
(ग) सूर्य: - सूर्यः प्रातकाले उदयति ।
(घ) पिक: - पिक: मधुरं गायति ।
(ङ) वह्निः - वह्निः काष्ठं दहते।
Either way the teacher or student will get the solution to the problem within 24 hours.