नवमः पाठः
भूकम्पविभीषिका
प्रस्तुतोऽयं पाठ: अस्माकं वातावरणे सम्भाव्यमानप्रकोपेषु अन्यतमां भूकम्पस्य विभीषिकां द्योतयति। प्रकृतौ जायमानाः आपदः भयावहप्रलयं समुत्पाद्य मानवजीवनं संत्रासयन्ति, ताभि:प्राणिनां सुखमयं जीवनं दुःखमयं सञ्जायते । एतासु प्रमुखाः सन्ति झञ्झावात:, भूकम्पनम्, जलोपप्लवः, अतिवृष्टिः, अनावृष्टिः, शिलास्खलनम्, भूविदारणम्, ज्वालामुखस्फोटादयः । अत्र पाठे भूकम्पविषये चिन्तनं विहितं यत् आपत्काले विपन्नतां त्यक्त्वा साहसेन यत्नं कुर्मः चेत् दारुणविभीषिकया संरक्षिता भवामः।
सरलार्थ - यह प्रस्तुत पाठ हमारे वातावरण में सम्भावित प्रकोपों में एक भूकम्प की भयावता का द्योतक है। प्रकृति के द्वारा उत्पन्न आपदा भयानक प्रलय को उत्पन्न करके मानव जीवन को पीड़ित करती है, उन प्राणियों के सुखमय जीवन को दुःखमय बना देती है। इनमें से प्रमुख हैं- तूफान, भूकम्प, बाढ़, अत्यधिक बारिश, सूखा, पत्थर का खिसकना, पृथ्वी में दरार आना, ज्वालामुखी आदि । इस पाठ में भूकम्प के विषय में चिन्तन किया गया कि आपात काल में चिन्ता को छोड़कर साहस के साथ प्रयत्न करना चाहिए, जिससे कि भयानक आपदा से सुरक्षित रह सकें ।
एकोत्तरद्विसहस्त्रख्रीष्टाब्दे ( 2001 ईस्वीये वर्षे ) गणतन्त्र दिवस - पर्वणि यदा समग्रमपि भारतराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर - राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं विपन्नञ्च जातम् । भूकम्पस्य दारुणविभीषिका समस्तमपि गुर्जरक्षेत्रं विशेषेण च कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती । भूकम्पस्य केन्द्र भूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम् । बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि । उत्खाता विद्युद्दीपस्तम्भाः । विशीर्णाः गृहसोपानमार्गाः । फालद्वये विभक्ता भूमिः । भूमिगर्भादुपरि निस्सरन्तीभिः दुर्वार - जलधाराभिः महाप्लावनदृश्यम् उपस्थितम्। सहस्रमिताः प्राणिनस्तु क्षणेनैव मृताः ।
सरलार्थ - सन् 2001 ईस्वीं में गणतन्त्र दिवस के पर्व पर जब पूरा भारत देश नृत्य, गायन आदि के उल्लास में मग्न था तब अचानक ही गुजरात राज्य व्याकुल, अस्त-व्यस्त, चीखों से युक्त और दुःखी हो गया। भूकम्प की अत्यन्त भयानक आपदा ने पूरे गुजरात क्षेत्र को और विशेष रूप से कच्छ जिले को खंडित अवशेषों में परिवर्तित कर दिया। भूकम्प का केन्द्र भुज नगर तो मिट्टी के खिलौने की तरह टुकड़े-टुकड़े हो गया। अनेक मंजिला भवन क्षण भर में ही धराशाही हो गए। बिजली के खंभे उखड़ गए। घर की सीढ़ियाँ टूट गई। धरती दो टुकड़ों में विभाजित हो गई। भूमि के गर्भ के ऊपर निकलती हुई जिनको हटाया नहीं जा सकता ऐसी जलधाराओं से बाढ़ का दृश्य बन गया। हजारों प्राणी तो क्षण भर में ही मर गए ।
ध्वस्तभवनेषु सम्पीडिता सहस्त्रशोऽन्ये सहायतार्थं करुणकरुणं क्रन्दन्ति स्म। हा दैव ! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवनं धारितवन्तः ।
सरलार्थ - टूटे हुए घरों में पीड़ित हजारों लोग सहायता के लिए करुण क्रन्दन कर रहे थे। हाय भाग्य ! भूख से पीड़ित कण्ठ वाले मरे हुए के समान कुछ बच्चे तो ईश्वर की कृपा से ही दो-तीन दिन जीवित रहें ।
इयमासीत् भैरवविभीषिका कच्छ - भूकम्पस्य । पञ्चोत्तर - द्विसहस्त्रख्रीष्टाब्दे (2005 ईस्वीये वर्षे ) अपि कश्मीर-प्रान्ते पाकिस्तान-देशे च धरायाः महत्कम्पनं जातम्। यस्मात्कारणात् लक्षपरिमिताः जना: अकालकालकवलिताः । पृथ्वी कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण शिलाः यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्यं कम्पनञ्च । तदैव भयावहकम्पनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते ।
सरलार्थ - यह भयानक आपदा कच्छ के भूकम्प की थी। सन् 2005 ईस्वीं में भी कश्मीर प्रदेश में और पाकिस्तान देश में धरती पर महान् (बड़ा ) भूकम्प आया। जिसके कारण लाखों लोग अकाल मृत्यु को प्राप्त हो गए। धरती कैसे काँपती है, वैज्ञानिक इस विषय में कहते हैं कि पृथ्वी के गर्भ में विद्यमान बहुत बड़े-बड़े पत्थर के टुकड़े जब आपस में टकराकर टूटते हैं, तब अत्यधिक संस्खलन (पत्थर का स्थान से हटना ) होता है और संस्खलनजन्य कम्पन्न उत्पन्न होता है। तब ही भयानक कम्पन्न पृथ्वी के ऊपरी तल पर आकर महान् कम्पन्न उत्पन्न करता है, जिससे महान् विनाश का दृश्य उत्पन्न होता है।
ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः । पृथिव्याः गर्भे विद्यमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरां पर्वतं वा विदार्य बहिर्निष्क्रामति । धूमभस्मावृतं जायते तदा गगनम्। सेल्सियश ताप - मात्राया अष्टशताङ्कतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति ।
सरलार्थ - ज्वालामुखी पर्वत पर विस्फोट से भी भूकम्प उत्पन्न होता है, ऐसा भूकम्प विशेषज्ञ कहते हैं। पृथ्वी के गर्भ में विद्यमान अग्नि जब खनिज, मिट्टी और पत्थर के संचय को उबालती है तो वह सब ही लावा बनकर तेज गति से धरती अथवा पर्वत को फाड़कर बाहर निकलता है। तब आकाश धुएँ से ढक जाता है। सेल्सियश की ताप मात्रा से आठ सौ (800) तक पहुँचकर यह लावा जब नदी के वेग से बहता है तब पास में स्थित गाँव अथवा नगर उसके पेट में क्षणभर में ही समा जाते हैं ।
निहन्यन्ते च विवशाः प्राणिनः । ज्वालामुद्भिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति ।
यद्यपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते । प्रकृतिसमक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम् । तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति । वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते । अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति ।
सरलार्थ - विवश प्राणी मारे जाते हैं। ज्वाला को उगलते हुए ये पर्वत भी भयानक भूकम्प को उत्पन्न करते हैं।
यद्यपि दैवीय प्रकोप को भूकम्प कहा जाता है, उसको शान्त करने का कोई भी स्थिर उपाय नहीं दिखाई देता है। प्रकृति के सामने आज भी विज्ञान का घमण्ड करने वाला मनुष्य बौना ही है, फिर भी भूकम्प का रहस्य जानने वाले कहते हैं कि अनेक मंजिलों वाले भवनों का निर्माण नहीं करना चाहिए। बाँध का निर्माण करके बहुत अधिक मात्रा में नदी के जल को भी एक स्थान पर एकत्र नहीं करना चाहिए अन्यथा असन्तुलन के कारण भूकम्प आते हैं। वास्तव में शान्त ही पाँच तत्त्व पृथ्वी, जल, तेज, वायु और आकाश पृथ्वी के योग और क्षेम (अप्राप्त की प्राप्ति योग है और प्राप्त की रक्षा क्षेम है) की कल्पना करते हैं। निश्चय ही अशान्त वे ही महाविनाश को उत्पन्न करते हैं।
अभ्यासः
1. एकपदेन उत्तरं लिखत-
(क) कस्य दारुण - विभीषिका गुर्जरक्षेत्रं ध्वंसावशेषेषु परिवर्तितवती ? भूकम्पस्य
(ख) कीदृशानि भवनानि धाराशायीनि जातानि ? बहुभूमिकानि
(ग) दुर्वार - जलधाराभिः किम् उपस्थितम् ? महाप्लावनदृश्यम्
(घ) कस्य उपशमनस्य स्थिरोपायः नास्ति ? भूकम्पस्य
(ङ) कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते? विवशाः
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) समस्तराष्ट्रं कीदृशे उल्लासे मग्नम् आसीत्?
उ. समस्तराष्ट्रं गणतन्त्र दिवस - पर्वणि नृत्य गीतवादित्राणाम् उल्लासे मग्नम् आसीत् ।
(ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?
उ. भूकम्पस्य केन्द्रबिन्दुः भुजनगरं जनपदः आसीत् ।
(ग) पृथिव्याः स्खलनात् किं जायते ?
उ. पृथिव्याः स्खलनात् महाकम्पनं जायते येन महाविनाशदृश्यं समुत्पद्यते ।
(घ) समग्रं विश्वं कैः आतङ्कित : दृश्यते ?
उ. समग्र विश्वं भूकम्पैः आतंकितः दृश्यते ।
(ङ) केषां विस्फोटैरपि भूकम्पो जायते ?
उ. ज्वालामुखपर्वतानां विस्फोटः अपि भूकम्पो जायते ।
3. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती ।
उ. भूकम्पविभीषिका विशेषेण कच्छजनपदं केषु परिवर्तितवती ?
(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भे, पाषाणशिलानां संघर्षणेन कम्पनं जायते ।
उ. के कथयन्ति यत् पृथिव्याः अन्तर्गर्भे, पाषाणशिलानां संघर्षणेन कम्पनं जायते ?
(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते ।
उ. विवशाः प्राणिनः कुत्र पिपीलिकाः इव निहन्यन्ते ?
(घ) एतादृशी भयावहघटना गढवालक्षेत्रे घटिता ।
उ. कीदृशी भयावहघटना गढवालक्षेत्रे घटिता?
(ङ) तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति ।
उ. तदिदानीं किं विचारणीयं तिष्ठति?
4. 'भूकम्पविषये' पञ्चवाक्यमितम् अनुच्छेदं लिखत ।
1. भूकम्पः यदा सम्भवति तदा तरंगानां सरण्या भूमिः कम्पिता भवति ।
2. भूकम्पस्य केन्द्रं परितः महाविनाशं भवति ।
3. भूकम्पेन क्षणेनैव भवनानि धराशायीनि भवन्ति ।
4. ज्वालामुखपर्वतानां विस्फोटः अपि भूकम्पो जायते ।
5. पृथ्वियाः स्खलनात् महाकम्पनं जायते येन महाविनाशदृश्यं समुत्पद्यते ।
5. कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत-
(क) समग्रं भारतम् उल्लासे मग्नः अस्ति | (अस् + लट् लकारे)
(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं कृतवती | ( कृ + क्तवतु + ङीप् )
(ग) क्षणेनैव प्राणिनः गृहविहीनाः अभवन् | (भू + लङ्, प्रथम - पुरुषः बहुवचनम् )
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां भवन्ति | (भू + लट्, प्रथम - पुरुष: बहुवचनम् )
(ङ) मानवाः पृच्छन्ति यत् बहुभूमिक भवननिर्माणं करणीयम् न वा ? (प्रच्छ् + लट्, प्रथम-पुरुषः बहुवचनम् )
(च) नदीवेगेन ग्रामाः तदुदरे समाविशेत् | ( सम् + पुरुष: बहुवचनम् )
6. सन्धिं / सन्धिविच्छेदं च कुरुत -
(अ) परसवर्णसन्धिनियमानुसारम्-
(क) किञ्च = किम् + च
(ख) नगरन्तु = नगरम् + तु
(ग) विपन्नञ्च = विपन्नम् + च
(घ) किन्नु = किम्+ नु
(ङ) भुजनगरन्तु = भुजनगरम् + तु
घ) सञ्चयः = सम् + चयः
(आ) विसर्गसन्धिनियमानुसारम्-
(क) शिशवस्तु = शिशव: + तु
(ख) विस्फोटैरपि = विस्फोटै: + अपि
(ग) सहस्रशोऽन्ये = सहस्रशः + अन्ये
(घ) विचित्रोऽयम् = विचित्र: + अयम्
(ङ) भूकम्पो जायते = भूकम्पः + जायते
(च) वामनकल्प एव = वामनकल्प + एव
7.(अ) 'क' स्तम्भे पदानि दत्तानि 'ख' स्तम्भे विलोमपदानि तयो: संयोगं कुरुत-
क ख
सम्पन्नम् प्रविशन्तीभिः सम्पन्नम् विपन्नम्
ध्वस्त भवनेषु सुचिरेणैव ध्वस्तमवनेषु नवनिर्मित भवनेषु
निस्सरन्तीभिः विपन्नम् निस्सरन्तीभिः विनाश्य
क्षणेनैव विनाश्य क्षणेनैव सुचिरेणैव
(आ) 'क' स्तम्भे पदानि दत्तानि 'ख' स्तम्भे समानार्थकपदानि तयोः संयोगं कुरुत-
क ख
पर्याकुलम् नष्टाः पर्याकुलम् व्याकुलम्
विशीर्णा : क्रोधयुक्तम् विशीर्णाः नष्टा:
उद्गिरन्तः त्रोट्य उद्गिरन्तः प्रकटयन्तः
विदार्य व्याकुलम् विदार्य संत्रोदय
प्रकुपिताम् प्रकटयन्तः प्रकुपिताम् क्रोधयुक्ताम्
8.(अ) उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती = परि + वृत् + क्तवतु + ङीप् (स्त्री)
धृतवान् = घृ + क्तवतु
हसन् = हस् + शतृ
विशीर्णा = वि + शृ + क्त + टाप्
प्रचलन्ती = प्र + चल + शतृ + ङीप् (स्त्री)
हतः = हन् + क्त
(आ) पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् कम्पनम् = महत्कम्पनम्
दारुणा च सा विभीषिका = दारुणविभीषिका
ध्वस्तेषु च तेषु भवनेषु = ध्वस्तमवनेषु
प्राक्तने च तस्मिन् युगे = प्राक्तनयुगे
महत् च तत् राष्ट्रं तस्मिन् = महाराष्ट्र
Gjgf
ReplyDelete